(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Aadiparv (Mahabharat) - आदिपर्व (महाभारत)


॥ श्रीः ॥
1.106. अध्यायः 106
Mahabharata - Adi Parva - Chapter Topics
स्वगोहर्तॄणां वसूनां वसिष्ठेन शापः॥ 1 ॥ पुनस्तत्प्रार्थनया तुष्टने वसिष्टेन शापसंकोचः॥ 2 ॥ गङ्गाया भीष्मेण सह स्वलोकगमनम्॥ 3 ॥
Mahabharata - Adi Parva - Chapter Text

शान्तनुरुवाच। 1-106-0x(646)(4652)
आपवो नाम कोन्वेष वसूनां किं च दुष्कृतम्।
`शशाप यस्मात्कल्याणि स वसूंश्चारुदर्शने।'
यस्याभिशापात्ते सर्वे मानुषीं योनिमागताः॥ 1-106-1(4653)
अनेन च कुमारेण त्वया दत्तेन किं कृतम्।
यस्य चैव कृतेनायं मानुषेषु निवत्स्यति॥ 1-106-2(4654)
ईशा वै सर्वलोकस्य वसवस्ते च वै कथम्।
मानुषेषूदपद्यन्त तन्ममाचक्ष्व जाह्नवि॥ 1-106-3(4655)
वैशम्पायन उवाच। 1-106-4x(647)
एवमुक्ता तदा गङ्गा राजानमिदमब्रवीत्।
भर्तारं जाह्नवी देवी शान्तनुं पुरुषर्षभ॥ 1-106-4(4656)
गङ्गोवाच। 1-106-5x(648)
यं लेभे वरुणः पुत्रं पुरा भरतसत्तम।
वसिष्ठनामा स मुनिः ख्यात आपव इत्युत॥ 1-106-5(4657)
तस्याश्रमपदं पुण्यं मृगपक्षिसमन्वितम्।
मेरोः पार्श्वे नगेन्द्रस्य सर्वर्तुकुसुमावृतम्॥ 1-106-6(4658)
स वारुणिस्तपस्तेपे तस्मिन्भरतसत्तम।
वने पुण्यकृतां श्रेष्ठः स्वादुमूलफलोदके॥ 1-106-7(4659)
दक्षस्य दुहिता या तु सुरभीत्यभिशब्दिता।
गां प्रजाता तु सा देवी कश्यपाद्भरतर्षभ॥ 1-106-8(4660)
अनुग्रहार्थं जगतः सर्वकामदुहां वराम्।
तां लेभे गां तु धर्मात्मा होमधेनुं स वारुणिः॥ 1-106-9(4661)
सा तस्मिंस्तापसारण्ये वसन्ती मुनिसेविते।
चचार पुण्ये रम्ये च गौरपेतभया तदा॥ 1-106-10(4662)
अथ तद्वनमाजग्मुः कदाचिद्भरतर्षभ।
पृथ्वाद्या वसवः सर्वे देवा देवर्षिसेवितम्॥ 1-106-11(4663)
ते सदारा वनं तच्च व्यचरन्त समन्ततः।
रेमिरे रमणीयेषु पर्वतेषु वनेषु च॥ 1-106-12(4664)
तत्रैकस्याथ भार्या तु वसोर्वासवविक्रम।
संचरन्ती वने तस्मिन्गां ददर्श सुमध्यमा॥ 1-106-13(4665)
नन्दिनीं नाम राजेन्द्र सर्वकामधुगुत्तमाम्।
सा विस्मयसमाविष्टा शीलद्रविणसंपदा॥ 1-106-14(4666)
द्यवे वै दर्शयामास तां गां गोवृषभेक्षण।
आपीनां च सुदोग्ध्रीं च सुवालधिखुरां शुभां॥ 1-106-15(4667)
उपपन्नां गुणैः सर्वैः शीलेनानुत्तमेन च।
एवंगुणसमायुक्तां वसवे वसुनन्दिनी॥ 1-106-16(4668)
दर्शयामास राजेन्द्र पुरा पौरवनन्दन।
द्यौस्तदा तां तु दृष्ट्वैव गां गजेन्द्रेन्द्रविक्रम॥ 1-106-17(4669)
उवाच राजंस्तां देवीं तस्या रूपगुणान्वदन्।
एषा गौरुत्तमा देवी वारुणेरसितेक्षणा॥ 1-106-18(4670)
ऋषेस्तस्य वरारोहे यस्येदं वनमुत्तमम्।
अस्याः क्षीरं पिबेन्मर्त्यः स्वादु यो वै सुमध्यमे॥ 1-106-19(4671)
दशवर्षसहस्राणि स जीवेत्स्थिरयौवनः। 1-106-20(4672)
वैशम्पायन उवाच।
एतच्छ्रुत्वा तु सा देवी नृपोत्तम सुमध्यमा॥ 1-106-20x(649)
तमुवाचानवद्याङ्गी भर्तारं दीप्ततेजसम्।
अस्ति मे मानुषे लोके नरदेवात्मजा सखी॥ 1-106-21(4673)
नाम्नाजितवती नाम रूपयौवनशालिनी।
उशीनरस्य राजर्षेः सत्यसन्धस्य धीमतः॥ 1-106-22(4674)
दुहिता प्रथिता लोके मानुषे रूपसंपदा।
तस्या हेतोर्महाभाग सवत्सां गां ममेप्सिताम्॥ 1-106-23(4675)
आनयस्वामरश्रेष्ठ त्वरितं पुण्यवर्धन।
यावदस्याः पयः पीत्वा सा सखी मम मानद॥ 1-106-24(4676)
मानुषेषु भवत्वेका जरारोगविवर्जिता।
एतन्मम महाभाग कर्तुमर्हस्यनिन्दित॥ 1-106-25(4677)
प्रियात्प्रियतरं ह्यस्मान्नास्ति मेऽन्यत्कथंचन।
एतच्छ्रुत्वा वचस्तस्या देव्याः प्रियचिकीर्षया॥ 1-106-26(4678)
पृथ्वाद्यैर्भ्रातृभिः सार्धं द्यौस्तदा तां जहार गाम्।
तया कमलपत्राक्ष्या नियुक्तो द्यौस्तदा नृप॥ 1-106-27(4679)
ऋषेस्तस्य तपस्वीव्रं न शशाक निरीक्षितुम्।
हृता गौः सा तदा तेन प्रपातस्तु न तर्कितः॥ 1-106-28(4680)
अथाश्रमपदं प्राप्तः फलान्यादाय वारुणिः।
न चापश्यत्स गां तत्र सवत्सां काननोत्तमे॥ 1-106-29(4681)
ततः स मृगयामास वने तस्मिंस्तपोधनः।
नाध्यागमच्च मृगयंस्तां गां मुनिरुदारधीः॥ 1-106-30(4682)
ज्ञात्वा तथाऽपनीतां तां वसुभिर्दिव्यदर्शनः।
ययौ क्रोधवशं सद्यः शशाप च वसूंस्तदा॥ 1-106-31(4683)
यस्मान्मे वसवो जह्रुर्गां वै दोग्ध्रीं सुवालधिम्।
तस्मात्सर्वे जनिष्यन्ति मानुषेषु न संशयः॥ 1-106-32(4684)
एवं शशाप भगवान्वसूंस्तान्भरतर्षभ।
वशं क्रोधस्य संप्राप्त आपवो मुनिसत्तमः॥ 1-106-33(4685)
शप्त्वा च तान्महाभागस्तपस्येव मनो दधे।
एवं स शप्तवान्राजन्वसूनष्टौ तपोधनः॥ 1-106-34(4686)
महाप्रभावो ब्रह्मर्षिर्देवान्क्रोधसमन्वितः।
`एवं शप्तास्ततस्तेन मुनिना यामुनेन वै॥ 1-106-35(4687)
अष्टौ समस्ता वंसवो दिवो दोषेण सत्तम।'
अथाश्रमपदं प्राप्तास्ते वै भूयो महात्मनः॥ 1-106-36(4688)
शप्ताः स्म इति जानन्त ऋषिं तमुपचक्रमुः।
प्रसादयन्तस्तमृषिं वसवः पार्थिवर्षभ॥ 1-106-37(4689)
लेभिरे न च तस्मात्ते प्रसादमृषिसत्तमात्।
आपवात्पुरुषव्याघ्र सर्वधर्मविशारदात्॥ 1-106-38(4690)
उवाच च स धर्मात्मा शप्ता यूयं धरादयः।
अनुसंवत्सरात्सर्वे शापमोक्षमवाप्स्यथ॥ 1-106-39(4691)
अयं तु यत्कृते यूयं मया शप्ताः स वत्स्यति।
द्यौस्तदा मानुषे लोके दीर्घकालं स्वकर्मणः॥ 1-106-40(4692)
नानृतं तच्चिकीर्षामि क्रुद्धो युष्मान्यदब्रुवम्।
न प्रजास्यति चाप्येष मानुषेषु महामनाः॥ 1-106-41(4693)
भविष्यति च धर्मात्मा सर्वशास्त्रविशारदः।
पितुः प्रियहिते युक्तः स्त्रीभोगान्वर्जयिष्यति॥ 1-106-42(4694)
एवमुक्त्वा वसून्सर्वान्सजगाम महानृषिः।
ततो मामुपजग्मुस्ते समेता वसवस्तदा॥ 1-106-43(4695)
अयाचन्त च मां राजन्वरं तच्च मया कृतम्।
जाताञ्जातान्प्रक्षिपास्मान्स्वयं गङ्गे त्वमम्भसि॥ 1-106-44(4696)
एवं तेषामहं सम्यक् शप्तानां राजसत्तम।
मोक्षार्थं मानुषाल्लोकाद्यथावत्कृतवत्यहम्॥ 1-106-45(4697)
अयं शापादृषेस्तस्य एक एव नृपोत्तम।
द्यौ राजन्मानुषे लोके चिरं वत्स्यति भारत॥ 1-106-46(4698)
अयं कुमारः पुत्रस्ते विवृद्धः पुनरेष्यति।
अहं च ते भविष्यामि आह्वानोपगता नृप॥ 1-106-47(4699)
वैशम्पायन उवाच। 1-106-48x(650)
एतदाख्याय सा देवी तत्रैवान्तरधीयत।
आदाय च कुमारं तं जगामाथ यथेप्सितम्॥ 1-106-48(4700)
स तु देवव्रतो नाम गाङ्गेय इति चाभवत्।
द्युनामा शान्तनोः पुत्रः शान्तनोरधिको गुणैः॥ 1-106-49(4701)
शान्तनुश्चापि शोकार्तो जगाम स्वपुरं ततः।
तस्याहं कीर्तयिष्यामि शान्तनोरधिकान्गुणान्॥ 1-106-50(4702)
महाभाग्यं च नृपतेर्भारतस्य महात्मनः।
यस्येतिहासो द्युतिमान्महाभारतमुच्यते॥ ॥ 1-106-51(4703)

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि षडधिकशततमोऽध्यायः॥ 106 ॥

Mahabharata - Adi Parva - Chapter Footnotes
1-106-8 गां प्रजाता नन्दिनीं जनितवती॥ 1-106-15 द्यवे द्युसंज्ञाय वसवे। वालधिः पुच्छम्॥ 1-106-16 वसुनन्दिनी वसुप्रिया॥ 1-106-28 प्रपातो वसिष्ठशापरूपः॥ 1-106-41 न प्रजास्यत्यात्मनः प्रजेच्छां न करिष्यति। क्यजन्तोयम्॥ षडधिकशततमोऽध्यायः॥ 106 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.