|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.106. अध्यायः 106
Mahabharata - Adi Parva - Chapter Topics
स्वगोहर्तॄणां वसूनां वसिष्ठेन शापः॥ 1 ॥ पुनस्तत्प्रार्थनया तुष्टने वसिष्टेन शापसंकोचः॥ 2 ॥ गङ्गाया भीष्मेण सह स्वलोकगमनम्॥ 3 ॥
Mahabharata - Adi Parva - Chapter Text
शान्तनुरुवाच। 1-106-0x(646)(4652)
आपवो नाम कोन्वेष वसूनां किं च दुष्कृतम्।
`शशाप यस्मात्कल्याणि स वसूंश्चारुदर्शने।'
यस्याभिशापात्ते सर्वे मानुषीं योनिमागताः॥ 1-106-1(4653)
अनेन च कुमारेण त्वया दत्तेन किं कृतम्।
यस्य चैव कृतेनायं मानुषेषु निवत्स्यति॥ 1-106-2(4654)
ईशा वै सर्वलोकस्य वसवस्ते च वै कथम्।
मानुषेषूदपद्यन्त तन्ममाचक्ष्व जाह्नवि॥ 1-106-3(4655)
वैशम्पायन उवाच। 1-106-4x(647)
एवमुक्ता तदा गङ्गा राजानमिदमब्रवीत्।
भर्तारं जाह्नवी देवी शान्तनुं पुरुषर्षभ॥ 1-106-4(4656)
गङ्गोवाच। 1-106-5x(648)
यं लेभे वरुणः पुत्रं पुरा भरतसत्तम।
वसिष्ठनामा स मुनिः ख्यात आपव इत्युत॥ 1-106-5(4657)
तस्याश्रमपदं पुण्यं मृगपक्षिसमन्वितम्।
मेरोः पार्श्वे नगेन्द्रस्य सर्वर्तुकुसुमावृतम्॥ 1-106-6(4658)
स वारुणिस्तपस्तेपे तस्मिन्भरतसत्तम।
वने पुण्यकृतां श्रेष्ठः स्वादुमूलफलोदके॥ 1-106-7(4659)
दक्षस्य दुहिता या तु सुरभीत्यभिशब्दिता।
गां प्रजाता तु सा देवी कश्यपाद्भरतर्षभ॥ 1-106-8(4660)
अनुग्रहार्थं जगतः सर्वकामदुहां वराम्।
तां लेभे गां तु धर्मात्मा होमधेनुं स वारुणिः॥ 1-106-9(4661)
सा तस्मिंस्तापसारण्ये वसन्ती मुनिसेविते।
चचार पुण्ये रम्ये च गौरपेतभया तदा॥ 1-106-10(4662)
अथ तद्वनमाजग्मुः कदाचिद्भरतर्षभ।
पृथ्वाद्या वसवः सर्वे देवा देवर्षिसेवितम्॥ 1-106-11(4663)
ते सदारा वनं तच्च व्यचरन्त समन्ततः।
रेमिरे रमणीयेषु पर्वतेषु वनेषु च॥ 1-106-12(4664)
तत्रैकस्याथ भार्या तु वसोर्वासवविक्रम।
संचरन्ती वने तस्मिन्गां ददर्श सुमध्यमा॥ 1-106-13(4665)
नन्दिनीं नाम राजेन्द्र सर्वकामधुगुत्तमाम्।
सा विस्मयसमाविष्टा शीलद्रविणसंपदा॥ 1-106-14(4666)
द्यवे वै दर्शयामास तां गां गोवृषभेक्षण।
आपीनां च सुदोग्ध्रीं च सुवालधिखुरां शुभां॥ 1-106-15(4667)
उपपन्नां गुणैः सर्वैः शीलेनानुत्तमेन च।
एवंगुणसमायुक्तां वसवे वसुनन्दिनी॥ 1-106-16(4668)
दर्शयामास राजेन्द्र पुरा पौरवनन्दन।
द्यौस्तदा तां तु दृष्ट्वैव गां गजेन्द्रेन्द्रविक्रम॥ 1-106-17(4669)
उवाच राजंस्तां देवीं तस्या रूपगुणान्वदन्।
एषा गौरुत्तमा देवी वारुणेरसितेक्षणा॥ 1-106-18(4670)
ऋषेस्तस्य वरारोहे यस्येदं वनमुत्तमम्।
अस्याः क्षीरं पिबेन्मर्त्यः स्वादु यो वै सुमध्यमे॥ 1-106-19(4671)
दशवर्षसहस्राणि स जीवेत्स्थिरयौवनः। 1-106-20(4672)
वैशम्पायन उवाच।
एतच्छ्रुत्वा तु सा देवी नृपोत्तम सुमध्यमा॥ 1-106-20x(649)
तमुवाचानवद्याङ्गी भर्तारं दीप्ततेजसम्।
अस्ति मे मानुषे लोके नरदेवात्मजा सखी॥ 1-106-21(4673)
नाम्नाजितवती नाम रूपयौवनशालिनी।
उशीनरस्य राजर्षेः सत्यसन्धस्य धीमतः॥ 1-106-22(4674)
दुहिता प्रथिता लोके मानुषे रूपसंपदा।
तस्या हेतोर्महाभाग सवत्सां गां ममेप्सिताम्॥ 1-106-23(4675)
आनयस्वामरश्रेष्ठ त्वरितं पुण्यवर्धन।
यावदस्याः पयः पीत्वा सा सखी मम मानद॥ 1-106-24(4676)
मानुषेषु भवत्वेका जरारोगविवर्जिता।
एतन्मम महाभाग कर्तुमर्हस्यनिन्दित॥ 1-106-25(4677)
प्रियात्प्रियतरं ह्यस्मान्नास्ति मेऽन्यत्कथंचन।
एतच्छ्रुत्वा वचस्तस्या देव्याः प्रियचिकीर्षया॥ 1-106-26(4678)
पृथ्वाद्यैर्भ्रातृभिः सार्धं द्यौस्तदा तां जहार गाम्।
तया कमलपत्राक्ष्या नियुक्तो द्यौस्तदा नृप॥ 1-106-27(4679)
ऋषेस्तस्य तपस्वीव्रं न शशाक निरीक्षितुम्।
हृता गौः सा तदा तेन प्रपातस्तु न तर्कितः॥ 1-106-28(4680)
अथाश्रमपदं प्राप्तः फलान्यादाय वारुणिः।
न चापश्यत्स गां तत्र सवत्सां काननोत्तमे॥ 1-106-29(4681)
ततः स मृगयामास वने तस्मिंस्तपोधनः।
नाध्यागमच्च मृगयंस्तां गां मुनिरुदारधीः॥ 1-106-30(4682)
ज्ञात्वा तथाऽपनीतां तां वसुभिर्दिव्यदर्शनः।
ययौ क्रोधवशं सद्यः शशाप च वसूंस्तदा॥ 1-106-31(4683)
यस्मान्मे वसवो जह्रुर्गां वै दोग्ध्रीं सुवालधिम्।
तस्मात्सर्वे जनिष्यन्ति मानुषेषु न संशयः॥ 1-106-32(4684)
एवं शशाप भगवान्वसूंस्तान्भरतर्षभ।
वशं क्रोधस्य संप्राप्त आपवो मुनिसत्तमः॥ 1-106-33(4685)
शप्त्वा च तान्महाभागस्तपस्येव मनो दधे।
एवं स शप्तवान्राजन्वसूनष्टौ तपोधनः॥ 1-106-34(4686)
महाप्रभावो ब्रह्मर्षिर्देवान्क्रोधसमन्वितः।
`एवं शप्तास्ततस्तेन मुनिना यामुनेन वै॥ 1-106-35(4687)
अष्टौ समस्ता वंसवो दिवो दोषेण सत्तम।'
अथाश्रमपदं प्राप्तास्ते वै भूयो महात्मनः॥ 1-106-36(4688)
शप्ताः स्म इति जानन्त ऋषिं तमुपचक्रमुः।
प्रसादयन्तस्तमृषिं वसवः पार्थिवर्षभ॥ 1-106-37(4689)
लेभिरे न च तस्मात्ते प्रसादमृषिसत्तमात्।
आपवात्पुरुषव्याघ्र सर्वधर्मविशारदात्॥ 1-106-38(4690)
उवाच च स धर्मात्मा शप्ता यूयं धरादयः।
अनुसंवत्सरात्सर्वे शापमोक्षमवाप्स्यथ॥ 1-106-39(4691)
अयं तु यत्कृते यूयं मया शप्ताः स वत्स्यति।
द्यौस्तदा मानुषे लोके दीर्घकालं स्वकर्मणः॥ 1-106-40(4692)
नानृतं तच्चिकीर्षामि क्रुद्धो युष्मान्यदब्रुवम्।
न प्रजास्यति चाप्येष मानुषेषु महामनाः॥ 1-106-41(4693)
भविष्यति च धर्मात्मा सर्वशास्त्रविशारदः।
पितुः प्रियहिते युक्तः स्त्रीभोगान्वर्जयिष्यति॥ 1-106-42(4694)
एवमुक्त्वा वसून्सर्वान्सजगाम महानृषिः।
ततो मामुपजग्मुस्ते समेता वसवस्तदा॥ 1-106-43(4695)
अयाचन्त च मां राजन्वरं तच्च मया कृतम्।
जाताञ्जातान्प्रक्षिपास्मान्स्वयं गङ्गे त्वमम्भसि॥ 1-106-44(4696)
एवं तेषामहं सम्यक् शप्तानां राजसत्तम।
मोक्षार्थं मानुषाल्लोकाद्यथावत्कृतवत्यहम्॥ 1-106-45(4697)
अयं शापादृषेस्तस्य एक एव नृपोत्तम।
द्यौ राजन्मानुषे लोके चिरं वत्स्यति भारत॥ 1-106-46(4698)
अयं कुमारः पुत्रस्ते विवृद्धः पुनरेष्यति।
अहं च ते भविष्यामि आह्वानोपगता नृप॥ 1-106-47(4699)
वैशम्पायन उवाच। 1-106-48x(650)
एतदाख्याय सा देवी तत्रैवान्तरधीयत।
आदाय च कुमारं तं जगामाथ यथेप्सितम्॥ 1-106-48(4700)
स तु देवव्रतो नाम गाङ्गेय इति चाभवत्।
द्युनामा शान्तनोः पुत्रः शान्तनोरधिको गुणैः॥ 1-106-49(4701)
शान्तनुश्चापि शोकार्तो जगाम स्वपुरं ततः।
तस्याहं कीर्तयिष्यामि शान्तनोरधिकान्गुणान्॥ 1-106-50(4702)
महाभाग्यं च नृपतेर्भारतस्य महात्मनः।
यस्येतिहासो द्युतिमान्महाभारतमुच्यते॥ ॥ 1-106-51(4703)
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि षडधिकशततमोऽध्यायः॥ 106 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-106-8 गां प्रजाता नन्दिनीं जनितवती॥ 1-106-15 द्यवे द्युसंज्ञाय वसवे। वालधिः पुच्छम्॥ 1-106-16 वसुनन्दिनी वसुप्रिया॥ 1-106-28 प्रपातो वसिष्ठशापरूपः॥ 1-106-41 न प्रजास्यत्यात्मनः प्रजेच्छां न करिष्यति। क्यजन्तोयम्॥ षडधिकशततमोऽध्यायः॥ 106 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|